||Sundarakanda ||

|| Sarga 49||( Slokas in Devanagari )

हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English

सुन्दरकांड.
अथ एकोनपंचाशस्सर्गः॥

ततः स कर्मणा तस्य विस्मितो भीमविक्रमः।
हनुमान्रोषताम्राक्षो रक्षोधिपमवैक्षत॥1||

भ्राजमानं महार्हेण कांचनेन विराजता।
मुक्तजालावृते नाथ मकुटेन महाद्युतिम्॥2||

वज्रसंयोगसंयुक्तैः महर्हमणिविग्रहैः।
हैमैराभरणैश्चित्रैः मनसेव प्रकल्पितैः॥3||

महर्हक्षौमसंवीतं रक्तचंदनरूषितं।
स्वनुलिप्तं विचित्राभिर्विविधाभिश्च भक्तिभिः॥4||

विवृतैर्दर्शनीयैश्च रक्ताक्षैर्भीमदर्शनैः।
दीप्त तीक्ष्णमहादंष्ट्रैः प्रलंबदशनच्छदैः॥5||

शिरोभिर्दशभिर्वीरं भ्राजमानं महौजसं।
नानाव्याळसमाकीर्णैः शिखरैरिव मंदरम्॥6||

नीलांजनचयप्रख्यं हारेणोरसि राजता।
पूर्ण चंद्राभवक्त्रेन सबलाकमिवांबुदम्॥7||

बाहुभिर्बद्धकेयूरैः चंदनोत्तमरूषितैः।
भ्राजमानांगदैः पीनैः पंचशीर्षैरिवोरगैः॥8||

महति स्फाटिके चित्रे रत्नसंयोगसंस्कृते।
उत्तमास्तरणास्तीर्णे सूपविष्टं वरानने॥9||

अलंकृताभिरत्यर्थं प्रमदाभिः समंततः।
वालव्यजनहस्ताभिः आरात्समुपसेवितम्॥10||

दुर्धरेण प्रहस्तेन महापार्श्वेन रक्षसा।
मंत्रिभिर्मंत्रतत्त्वज्ञैः निकुंभेन च मंत्रिणा॥11||

सुखोपविष्टं रक्षोभिः चतुर्भिः बलदर्पितैः।
कृत्स्नः परिवृतोलोकः चतुर्भिरिवसागरैः॥12||

मंत्रिभिर्मंत्रतत्त्वज्ञैः अन्यैश्च शुभबुद्धिभिः।
अन्वास्यमानं रक्षोभिः सुरैरिव सुरेश्वरम्॥13||

अपश्यत् राक्षपतिं हनुमानतितेजसं।
विष्ठितं मेरुशिखरे सतोयमिव तोयदम्॥14||

सतैसंपीड्यमानोऽपि रक्षोभिर्भीमविक्रमैः।
विस्मयं परमं गत्वा रक्षोऽधिपमवैक्षत॥15||

भ्राजमानं ततो दृष्ट्वा हनुमान्राक्षसेश्वरम्।
मनसा चिंतयामास तेजसा तस्य मोहिता॥16||

अहो रूप महोधैर्य महोसत्त्व महोद्युतिः।
अहो राक्षसराजस्य सर्वलक्षण युक्तता॥17||

यद्यधर्मो न बलवान् स्यादयं राक्षसेश्वरः।
स्या दयं सुरलोकस्य सशक्रस्यापि रक्षिता॥18||

अस्य क्रूरैर्नृशंसैश्च कर्मभिर्लोककुत्सितैः।
सर्वे बिभ्यति खल्वस्माल्लोकाः सामरदानवाः॥19||
अयं ह्युत्सहते क्रुद्धः कर्तुमेकार्णवं जगत्।

इतिचिंतां बहुविधा मकरोन्मतिमान् कपिः॥
दृष्ट्वा राक्षसराजस्य प्रभावममितौजसः॥20||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकांडे एकोनपंचाशस्सर्गः ॥

|| Om tat sat ||